वीताखिल- विषयेच्छं जातानन्दाश्र\ पुलकमत्यच्छम् । सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥
तरुणारुण मुख- कमलं करुणा- रसपूर- पूरितापाङ्गम् । सन्जीवनमाशासे मञ्जुल- महिमानमञ्जना- भाग्यम् ॥२॥
शम्बरवैरि- शरातिगमम्बुजदल- विपुल- लोचनोदारम् । कम्बुगलमनिलदिष्टम् बिम्ब- ज्वलितोष्ठमेकमवलम्बे ॥३॥
दूरीकृत- सीतार्तिः प्रकटीकृत- रामवैभव- स्फूर्तिः । दारित- दशमुख- कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥
वानर- निकराध्यक्षं दानवकुल- कुमुद- रविकर- सदृशम् । दीन- जनावन- दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥
एतत्- पवन- सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् । चिरमिह- निखिलान् भोगान् भुङ्क्त्वा श्रीराम- भक्ति- भाग्- भवति ॥६॥
इति श्रीमच्छंकर- भगवतः कृतौ हनुमत्- पञ्चरत्नं संपूर्णम् ॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel