वीताखिलविषयेच्छं जातानन्दाश्र। पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥

तरुणारुण मुखकमलं करुणारसपूरपूरितापाङ्गम् ।
सन्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥२॥

शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्बज्वलितोष्ठमेकमवलम्बे ॥३॥

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥

एतत्पवनसुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिहनिखिलान् भोगान् भुङ्क्त्वा
श्रीरामभक्तिभाग्भवति ॥६॥

इति श्रीमच्छंकरभगवतः कृतौ हनुमत्पञ्चरत्नं संपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel