वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताद्यं वातात्मजमद्य भावये ह्रद्यम् ॥१॥
तरुनारुनमुखकमलं करुणारस-पूर-पूरितापाङ्‌गम् ।
संजीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥२॥
शम्बर-वैरि-शरातिगमम्बुज-दल-विपुल-लोचनोदारम् ।
कम्बुगलमनिल-दिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥३॥
दुरीकृत-सीतार्तिः प्रकटीकृतरामवैबवस्फूर्तिः ।
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥
वानर-निकराध्यक्षं दानव-कुल-कुमुद-रवि-कर-सदृक्षम् ।
दीन-जनावन-दीक्षं पवन-तपःपाक-पुञ्जमद्राक्षम् ॥५॥
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निकिलान् भोगान भुक्त्वा श्रीरामभक्तिभाग्भवति ॥६॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel