हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् ।
कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥१॥
गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं सान्ध्यरागमधुराधाराभरणसुन्दराननशुचिस्मिताम् ।
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥२॥
स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥३॥
भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् ।
वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां चारुचन्द्रविलोचनां मनसि भावयामि परदेवताम् ॥४॥
कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् ।
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥५॥
वारणाननमयूरवाहमुखदाहवारणपयोधरां चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् ।
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥६॥
पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् ।
पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥७॥
आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् ।
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥८॥
कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं चूलिकाशिखरमालिकावलयमाल्लिकासुरभिसौरभाम् ।
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां कालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥९॥
नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम् । शंकरेण रचितां सदा जपे- न्नामरत्ननवरत्नमालिकाम् ॥१०॥
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel